(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    

सभापर्व ~ महाभारत | Mahabharat Sabha Parv In Hindi


॥ श्रीः ॥
2.70. अध्यायः 070
Mahabharata - Sabha Parva - Chapter Topics
कृष्णशिशुपालयोर्युद्धवर्णनम्॥ 1॥ शिशुपालवधः॥ 2॥
Mahabharata - Sabha Parva - Chapter Text

वैशम्पायन उवाच॥

ततो विष्फारयन्राजा महच्चैदिपतिर्धनुः।
अभियास्यन्हृषीकेशमुवाच मधुसूदनम्॥ 2-70-1(14040)
एकस्त्वमसि मे शत्रुस्तत्त्वां हत्वाऽद्य माधव।
ततः सागरपर्यन्तां पालयिष्यामि मेदिनीम्॥ 2-70-2(14041)
द्वैरथं काङ्क्षितं यद्वै तदिदं पर्युपस्थितम्।
चिरस्य वत मे दिष्ट्या वासुदेव सह त्वया।
अद्य त्वां निहनिष्यामि भीष्मं च सह पाण्डवैः॥ 2-70-3(14042)
वैशम्पायन उवाच। 2-70-4x(1502)
एवमुक्त्वा स तं बाणैर्निशितैरत्ततेजनैः।
विव्याध युधि तीक्ष्णाग्रैश्चेदिराड्यपुङ्गवम्? 2-70-4(14043)
कङ्कपत्रच्छदा बाणाश्चेदिराजधनुश्च्युताः।
विविशुस्ते तदा कृष्णं भुजङ्गा इव पर्वतम्? 2-70-5(14044)
नाददानस्य चैद्यस्य शरानत्यस्यतोपि वा।
दधृशुर्विवरं केचिद्गतिं वायोरिवाम्बरे? 2-70-6(14045)
चेदिराजमहामेधः शरजालाम्बुमांस्तदा।
अभ्यवर्षद्धृषीकेशं पयोद इव पर्वतम्? 2-70-7(14046)
ततः शार्ङ्गममित्रघ्नः कृत्वा सशरमच्युतः।
आबभाषे महबाहुः सुनीथं परवीरहा।। 2-70-8(14047)
अयं त्वं भामकस्तीक्ष्णश्चेदिराज महाशरः।
भेत्तुमर्हति वेगेन महाशनिरिवाचलम्॥ 2-70-9(14048)
वैशम्पायन उवाच। 2-70-10x(1503)
एवं ब्रुवति गोविन्दे ततश्चेदिपतिः पुनः।
मुमोच निशितानन्यान्कृष्णं प्रति शरान्बहून्॥ 2-70-10(14049)
अथ बाणार्दितः कृष्णः शार्ङ्गमायम्य दीप्तिमान्।
मुमोच निशितान्बाणाञ्छतशोथ सहस्रशः॥ 2-70-11(14050)
ताञ्छरांस्तु स चिच्छेद शरवर्षैस्तु चेदिराट्।
षड्भिश्चान्यैर्जघानाशु केशवं चेदिपुङ्गवः॥ 2-70-12(14051)
ततोऽस्रं सहसा कृष्णः प्रमुमोच जगद्गुरुः।
अस्त्रेण तन्महाबाहुर्वारयामास चेदिराट्॥ 2-70-13(14052)
ततः शतसहस्रेण शराणां नतपर्वणाम्।
सर्वतः समवाकीर्य शौरिं दामोदरं तदा॥ 2-70-14(14053)
ननाद बलवान्क्रुद्धः शिशुपालः प्रतापवान्।
इदं चोवाच संरब्धः केशवं परवीरहा॥ 2-70-15(14054)
शिशुपाल उवाच॥ 2-70-16x(1504)
अद्याङ्गं मामका बाणा भेत्स्यन्ति तव संयुगे।
हत्वा त्वां समुतामात्यं पाण्डवांश्च तरस्विनः॥ 2-70-16(14055)
अनृण्यमद्यय यास्यामि जरासन्धस्य धीमतः।
कंसस्य केशिनश्चैव नरकस्य तथैव ह॥ 2-70-17(14056)
वैशम्पायन उवाच॥ 2-70-18x(1505)
इत्युक्त्वा क्रोधताम्राक्षः शिशुपालो जनार्दनम्।
अदृश्यं शरवर्षेण सर्वतः स चकार ह॥ 2-70-18(14057)
ततोऽस्त्रेणैव चान्योन्यं निकृत्य च शरान्बहून्।
शरवर्षैस्तदा चैद्यमन्तर्धातुं प्रचक्रमे॥ 2-70-19(14058)
अन्तर्धानगतौ वीरौ शुशुभाते महारथौ।
तौ दृष्ट्वा सर्वभूतानि साधुसाध्वित्यपूजयन्॥ 2-70-20(14059)
न दृष्टपूर्वमस्माभिर्युद्धमीदृशकं पुरा।
ततः कृष्णं जघानाशु शुशुपालस्त्रिभिः शरैः॥ 2-70-21(14060)
कृष्णोऽपि बाणैर्विव्याध सुनीथं पञ्चभिर्युधि।
ततः सुनीथं सप्तत्या नाराचैर्दयद्बली। 2-70-22(14061)
ततोऽतिविद्धः कृष्णेन सुनीथः क्रोधमूर्छितः।
विव्याध निशितैर्बाणैर्वासुदेवं स्तनान्तरे॥ 2-70-23(14062)
पुनः कृष्णं त्रिभिर्विद्ध्वा ननादावसरे नृपः।
ततोऽतिदारुणं युद्धं सहसा चक्रतुस्तदा॥ 2-70-24(14063)
नौ नखैरिव शार्दूलौ दन्तैरिव महागजौ।
दंष्ट्राभिरिव पञ्चास्यौ चरणैरिव कुक्कुटौ॥ 2-70-25(14064)
दारयेतां शरैस्तीक्ष्णैरन्योन्यं युधि तावुभौ।
ततो मुमुचतुः क्रुद्धौ शरवर्षमनुत्तमम्॥ 2-70-26(14065)
शरैरेव शराञ्छित्वा तावुभौ पुरुषर्षभौ।
चक्रातेऽस्त्रमयं युद्धं घोरं तदतिमानुषम्॥ 2-70-27(14066)
आग्नेयमस्त्रं मुमुचे शिशुपालः प्रतापवान्।
वारुणास्त्रेण तच्छ्रीघ्रं नाशयामास केशवः॥ 2-70-28(14067)
कौबेरमस्त्रं सहसा चेदिराट् प्रमुमोच ह। 2-70-29 कौबेरणैव सहसाऽनाशयत्तं जगत्प्रभुः॥ 2-70-29(14068)
याम्यमस्त्रं ततः क्रुद्धो मुमुचे कालमोहितः।
याम्येनैवास्त्रयोगेन याम्यमस्त्रं व्यनाशयत्॥ 2-70-30(14069)
गान्धर्वेण च गान्धर्वं मानवं मानवेन च।
वायव्येन च वायव्यं रौद्रं रौद्रेण चाभिभूः॥ 2-70-31(14070)
ऐन्द्रमैन्द्रेण भगवान्वैष्णवेन च वैष्णवम्।
एवमस्त्राणि कुर्वाणौ युयुधाते महाबलौ॥ 2-70-32(14071)
ततो मायां विकुर्वाणो दमगोषसुतो बली।
गदामुसलसंयुक्ताञ्छक्तितोमरसायकान्॥ 2-70-33(14072)
परश्वथमुसण्डीश्च ववर्ष युधि केशवम्।
अमोघास्त्रेण भगवान्नाशयामास केशिहा॥ 2-70-34(14073)
शिलावर्षं महाघोरं ववर्ष युधि चेदिराट्।
वज्रास्त्रेणाभिसङ्क्रुद्धश्चूर्णं तदकरोत्प्रभुः॥ 2-70-35(14074)
जलवर्षं ततो घोरं व्यस़जच्चेदिपुङ्गवः।
वायव्यास्त्रेण भगवान्व्याक्षिपच्छतशो हि तत्॥ 2-70-36(14075)
निहत्य सर्वमायां वै सुनीतस्य जनार्दनः।
स मुहूर्तं चकाराशु द्वन्द्वयुद्धं महारथः॥ 2-70-37(14076)
स बाणयुद्धं कुर्वाणो भर्त्सयामास चेदिराट्।
दमघोषसुतो धृष्टमुवाच यदुपुङ्गवम्॥ 2-70-38(14077)
अद्य कृष्णमकृष्णं तु कुर्वन्तु मम सायकाः।
इत्येवमुक्त्वा दुष्टात्मा शरवर्षं जनार्दने॥ 2-70-39(14078)
मुमोच पुरुषव्याघ्रो घोरं वै चेदिपुङ्गवः।
शरसंङ्कृत्तगात्रस्तु क्षणेन यदुनन्दनः॥ 2-70-40(14079)
रुधिरं परिसुस्राव मदं मत्त इव द्विपः।
न यन्ता न रथो वापि न चाश्वाः पर्वतोपमाः॥ 2-70-41(14080)
दृश्यन्ते शरसञ्छन्नाः केशवस्य महात्मनः।
केशवं तदवस्थं तु दृष्ट्वा भूतानि चक्रुशुः॥ 2-70-42(14081)
दारुकस्तु तदा प्राह कृष्णं यादवनन्दनम्।
नेदृशो दृष्टपूर्वो हि सङ्ग्रामो वै पुरा मया॥ 2-70-43(14082)
स्थातव्यमिति तिष्ठामि त्वत्प्रभावेण माधव।
अन्यथा न च मे प्राणा धरायेयुर्जनार्दन॥ 2-70-44(14083)
अतः सञ्चिन्त्य गोविन्द क्षिप्रमस्य वधं कुरु।
एवमुक्तस्तु सूतेन केशवो वाक्यमब्रवीत्॥ 2-70-45(14084)
एष ह्यतिबलो दैत्यो हिरण्यकशिपुः पुरा।
रिपुः सुराणामभवद्वरदानेन गर्वितः॥ 2-70-46(14085)
तथाऽऽसीद्रावणो नाम राक्षसो ह्यतिवीर्यवान्।
तेनैव बलवीर्येण बलं नागणयन्मम॥ 2-70-47(14086)
अहं मृत्युश्च भविता काले काले दुरात्मनः।
न भेतव्यं तथा सूत नैष कश्चिन्मयि स्थिते॥ 2-70-48(14087)
इत्येवमुक्त्वा भगवान्ननर्द गरुडध्वजः।
पाञ्चजन्यं महाशङ्खं पूरयामास केशवः॥ 2-70-49(14088)
संमोहयित्वा भगवांश्चक्रं दिव्यं समाददे।
चिच्छेद च सुनीथस्य शिरश्चक्रेण संयुगे'॥ 2-70-50(14089)
स पपात महाबाहुर्वज्राहत इवाचलः।
ततश्चेदिपतेर्देहात्तेजोऽग्र्यं ददृशुर्नृपाः॥ 2-70-51(14090)
उत्पतन्तं महाराज गगनादिव भास्करम्।
ततः कमलपत्राक्षं कृष्णं लोकनमस्कृतम्।
ववन्दे तत्तदा तेजो विवेश च नराधिप॥ 2-70-52(14091)
तदद्भुतममन्यन्त दृष्ट्वा सर्वे महीक्षितः।
यद्विवेश महाबाहुं तत्तेजः पुरुषोत्तमम्॥ 2-70-53(14092)
अनभ्रे प्रववर्ष द्यौः पपात ज्वलिताशनिः।
कृष्णेन निहते चैद्ये चचाल न वसुन्धरा॥ 2-70-54(14093)
ततः केचिन्महीपाला नाब्रुवंस्तत्र किञ्चन।
अतीतवाक्पथे काले प्रेक्षमाणा जनार्दनम्॥ 2-70-55(14094)
हस्तैर्हस्ताग्रमपरे प्रत्यपिंषन्नमर्षिताः।
अपरे दशनैरोष्ठानदशन्क्रोधमूर्छिताः॥ 2-70-56(14095)
रहश्च केचिद्वार्ष्णेयं प्रशशंसुर्नराधिपाः।
केचिदेव सुसंरब्धा मध्यस्थास्त्वपरेऽभवन्॥ 2-70-57(14096)
प्रहृष्टाः केशवं जग्मुः संस्तुवन्तो महर्षयः।
ब्राह्मणाश्च महात्मानः पार्थिवाश्च महाबलाः।
शशंसुर्निर्वृताः सर्वे दृष्ट्वा कृष्णस्य विक्रमम्॥ 2-70-58(14097)
`सदेवगन्धर्वगणा राजानो भुवि विश्रुताः।
प्रणामं हि हृषीकेशे प्राकुर्वत महात्मनि॥ 2-70-59(14098)
ये त्वासुरगणाः पक्षाः सम्भूताः क्षत्रिया इह।
ते निन्दन्ति हृषीकेशं दुरात्मानो गतायुषः॥ 2-70-60(14099)
प्रजापतिगणा ये तु मध्यस्थाश्च महात्मनि।
ब्रह्मर्षयश्च सिद्धाश्च गन्धर्वोरगचारणाः॥ 2-70-61(14100)
ते वै स्तुवन्ति गोविन्दं दिव्यैर्मङ्गलसंयुतैः।
परस्परं च नृत्यन्ति गीतेन विविधेन च।
उपतिष्ठन्ति गोविन्दं प्रीतियुक्ता महात्मनि॥ 2-70-62(14101)
प्रहृष्टाः केशवं जग्मुः संस्तुवन्तो महर्षयः।
ब्राह्मणाश्चापि सुप्रीताः पाण्डवाश्च महाबलाः॥ 2-70-63(14102)
पाण्डवस्त्वब्रवीद्भातॄन्सत्कारेण महीपतिम्।
दमघोषात्मजं शूरं संस्कारयत मा चिरम्॥ 2-70-64(14103)
कुरुराजवचः श्रुत्वा भ्रातरस्ते त्वरान्विताः।
तथा च कृतवन्तस्ते भ्रातुर्वै शासनं तदा॥ 2-70-65(14104)
चेदीनामाधिपत्ये च पुत्रं तस्याज्ञया हरेः।
अभ्यषिञ्चत तं पार्थः सहितैर्वसुधाधिपैः॥ ॥ 2-70-66(14105)

इति श्रीमन्महाभारते सभापर्वणि शिशुपालवधपर्वणि सप्ततितमोऽध्यायः॥ 70॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.